(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

Mahabharata - Drona Parva


॥ श्रीः ॥
7.185. अध्यायः 185
Mahabharata - Drona Parva - Chapter Topics
निद्रोपद्रुतानां सैन्यानामर्जुनाज्ञया स्वापेन श्रान्तिमपनीय चन्द्रोदयानन्तरं युद्धारम्भः॥ 1 ॥


Mahabharata - Drona Parva - Chapter Text

सञ्जय उवाच। 7-185-0x(4759)(53555)
व्यासेनैवमथोक्तस्तु धर्मराजो युधिष्ठिरः।
स्वयं कर्णवधाद्वीरो निवृत्तो भरतर्षभ॥ 7-185-1(53556)
घटोत्कचे तु निहते सूतपुत्रेण ता निशाम्।
दुःखामर्षवशं प्राप्तो धर्मराजो युधिष्ठिरः॥ 7-185-2(53557)
दृष्ट्वा भीमेन महतीं वार्यमाणां चमूं तव।
धृष्टद्युम्नमुवाचेदं कुम्भयोनिं निवारय॥ 7-185-3(53558)
त्वं हि द्रोणविनाशाय समुत्पन्नो हुताशनात्।
सशरः कवची खङ्गी धन्वी च परतापनः।
अभिद्रव रणे हृष्टो मा च ते भीः कथञ्चन॥ 7-185-4(53559)
जनमेजयः शिखण्डी च दौर्मुखिश्च यशोधरः।
अभिद्रवन्तु संहृष्टाः कुम्भयोनिं समन्ततः॥ 7-185-5(53560)
नकुलः सहदेवश्च द्रौपदेयाः प्रभद्रकाः।
द्रुपदश्च विराटश्च पुत्रभातृसमन्वितौ॥ 7-185-6(53561)
सात्यकिः केकयाश्चैव पाण्डवश्च धनञ्जयः।
अभिद्रवन्तु वेगेन कुम्भयोनिवधेप्सया॥ 7-185-7(53562)
तथैव रथिनः सर्वे हस्त्यश्वं यच्च किञ्चन।
पदाताश्च रणे द्रोणं पातयन्तु महारथम्॥ 7-185-8(53563)
तथाऽऽज्ञप्तास्तु ते सर्वे पाण्डवेन महात्मना।
अभ्यद्रवन्त वेगेन कुम्भयोनिवधेप्सया॥ 7-185-9(53564)
आगच्छतस्तान्सहसा सर्वोद्योगेन पाण्डवान्।
प्रतिजग्राह समरे द्रोणः शस्त्रभृतां वरः॥ 7-185-10(53565)
ततो दुर्योधनो राजा सर्वोद्योगेन पाण्डवान्।
अभ्यद्रवत्सुसङ्क्रुद्ध इच्छन्द्रोणस्य जीवितम्॥ 7-185-11(53566)
ततः प्रववृते युद्धं श्रान्तवाहनसैनिकम्।
पाण्डवानां कुरूणां च गर्जतामितरेतरम्॥ 7-185-12(53567)
निद्रान्धास्ते महाराज परिश्रान्ताश्च संयुगे।
नाभ्यपद्यन्त समरे काञ्चिच्चेष्टां महारथाः॥ 7-185-13(53568)
त्रियामा रजनी चैषा घोररूपा भयानका।
सहस्रयामप्रतिमा बभूव प्राणहारिणी॥ 7-185-14(53569)
वध्यतां च तथा तेषां क्षतानां च विशेषतः।
घोरा रात्रिः समाजज्ञे निद्रान्धानां विशेषतः॥ 7-185-15(53570)
सर्वे ह्यासन्निरुत्साहाः क्षत्रिया दीनचेतसः।
तव चैव परेषां च गतास्त्रा विगतेषवः॥ 7-185-16(53571)
ते तदा पारयन्तश्च भ्रमन्तश्च विशेषतः।
स्वधर्ममनुपश्यन्तो न जहुः स्वामनीकिनीम्॥ 7-185-17(53572)
अस्त्राण्यन्ये समुत्सृज्य निद्रान्धाः शेरते जनाः।
रथेष्वन्ये गजेष्वन्ये हयेष्वन्ये च भारत॥ 7-185-18(53573)
निद्रान्धा नो बुबुधिरे काञ्चिच्चेष्टां नराधिप।
तानन्ये समरे योधाः प्रेषयन्ति यमक्षयम्॥ 7-185-19(53574)
स्वप्नायमानांस्त्वपरे परानतिविचेतसः।
आत्मानं समरे जघ्नुः स्वानेव च परानपि॥ 7-185-20(53575)
नानावाचो विमुञ्चन्तो निद्रान्धास्ते महारणे॥ 7-185-21(53576)
अस्माकं च महाराज परेभ्यो बहवो जनाः।
योद्धव्यमिति तिष्ठन्तो निदासंरक्तलोचनाः॥ 7-185-22(53577)
संसर्पन्तो रणे केचिन्निद्रान्धास्ते तथापरान्।
जघ्रुः शूरा रणे शूरांस्तस्मिंस्तमसि दारुणे॥ 7-185-23(53578)
हन्यमानमथात्मावनं परैश्च बहवो जनाः।
नाभ्यजानन्त समरे निद्रया मोहिता भृशम्॥ 7-185-24(53579)
तेषामेतादृशीं चेष्टां विज्ञाय पुरुषर्षभः।
उवाच वाक्यं बीभत्सुरुच्चैः सन्नादयन्दिशः॥ 7-185-25(53580)
श्रान्ता भवन्तो निद्रान्धाः सर्व एव सवाहनाः।
तमसा च वृते सैन्ये रजसा बहुलेन च॥ 7-185-26(53581)
ते यूयं यदि मन्यध्वमुपारमत सैनिकाः।
निमीलयत चात्रैव रणभूमौ मुहूर्तकम्॥ 7-185-27(53582)
ततो विनिद्रा विश्रान्ताश्चन्द्रमस्युदिते पुनः।
संसाधयिष्यथान्योन्यं स्वर्गाय कुरुपाण्डवाः॥ 7-185-28(53583)
तद्वचः सर्वधर्मज्ञा धार्मिकस्य विशाम्पते।
अरोचयन्त सैन्यानि तथा चान्योन्यमब्रुवन्॥ 7-185-29(53584)
चुक्रुशुः कर्णकर्णेनि तथा दुर्योधनेति च।
उपारमत पाण्डूनां विरता हि वरूथिनी॥ 7-185-30(53585)
तथा विक्रोशमानस्य फल्गुनस्य ततस्ततः।
उपारमत पाण्डूनां सेना तव च भारत॥ 7-185-31(53586)
तामस्य वाचं देवाश्च ऋषयश्च महात्मनः।
सर्वसैन्यानि चाक्षुद्रां प्रहृष्टाः प्रत्यपूजयन्॥ 7-185-32(53587)
तत्सम्पूज्य वचोऽक्रूरं सर्वसैन्यानि भारत।
मुहूर्तमस्वपन्राजञ्श्रान्तानि भरतर्षभ॥ 7-185-33(53588)
सा तु सम्प्राप्य विश्रामं ध्वजिनी तव भारत।
सुखमाप्तवती वीरमर्जुनं प्रत्यपूजयत्॥ 7-185-34(53589)
त्वयि वेदास्तथास्त्राणि त्वयि बुद्धिपराक्रमौ।
धर्मस्त्वयि महाबाहो दया भूतेषु चानघ॥ 7-185-35(53590)
यच्चाश्वस्तास्तवेच्छामः शर्म पार्थ तदस्तु ते।
मनसश्च प्रियानर्थान्वीर क्षिप्रमवाप्नुहि॥ 7-185-36(53591)
इति ते तं नरव्याघ्रं प्रशंसन्तो महारथाः।
निद्रया समवाक्षिप्तास्तूष्णीमासन्विशाम्पते॥ 7-185-37(53592)
`वीरा वारणकुम्भेषु सुषुपुर्युद्धकर्शिताः।
रात्रौ रतिपरिश्रान्ताः कामिनीनां कुचेष्विव'॥ 7-185-38(53593)
अश्वपृष्ठेषु चाप्यन्ये रथनीडेषु चापरे।
गजस्कन्धगताश्चान्ये शेरते चापरे क्षितौ॥ 7-185-39(53594)
सायुधाः सगदाश्चैव सखङ्गाः सपरश्वथाः।
सप्रासकवचाश्चान्ये नराः सुप्ताः पृथक्पृथक्॥ 7-185-40(53595)
गजास्ते पन्नगाभोगैर्हस्तैर्भूरेणुगुण्ठितैः।
निद्रान्धा वसुधां चक्रुर्घ्राणनिः श्वासशीतलाम्॥ 7-185-41(53596)
सुप्ताः शुशुभिरे तत्र निःश्वसन्तो महीतले।
विकीर्णा गिरयो यद्वन्निःश्वसद्भिर्महोरगैः॥ 7-185-42(53597)
समां च विषमां चक्रुः खुराग्रैर्विकृतां महीम्।
हयाः काञ्चनयोक्त्रास्ते केसरालम्बिभिर्युगैः।
सुषुपुस्तत्र राजेन्द्र युक्ता वाहेषु सर्वशः॥ 7-185-43(53598)
एवं हयाश्च नागाश्च योधाश्च भरतर्पभ।
युद्धाद्विरम्य सुषुपुः श्रमेण महताऽन्विताः॥ 7-185-44(53599)
तत्तथा निद्रया भग्नं तद्बभौ निःस्वनं बलम्।
कुशलैः शिल्पिभिर्न्यस्तं पटे चित्रमिवाद्भुतम्॥ 7-185-45(53600)
ते क्षत्रियाः कुण्डलिनो युवानः
परस्परं सायकविक्षताङ्गाः।
कुम्भेषु लीनाः सुषुपुर्गजानां
कुचेषु लग्ना इव कामिनीनाम्॥ 7-185-46(53601)
ततः कुमुदनाथेन कामिनीगण्डपाण्डुना।
नेत्रानन्देन चन्द्रेण माहेन्द्री दिगलङ्कृता॥ 7-185-47(53602)
दशशताक्षककुब्दरिनिःसृतः
किरणकेसरभासुरपिञ्जरः।
तिमिरवारणवृथविदारणः
समुदियादुदयाचलकेसरी॥ 7-185-48(53603)
हरवृषोत्तमगात्रसमद्युतिः
स्मरशरासनपूर्णसमप्रभः।
नववधृस्मितचारुमनोहरः
प्रविसृतः कुमुदाकरबान्धवः॥ 7-185-49(53604)
ततो मुहूर्ताद्भगवान्पुरस्ताच्छशलक्षणः।
अरुणं दर्शयामास ग्रसञ्ज्योतिः प्रभां प्रभुः॥ 7-185-50(53605)
अरुणस्य तु तस्यानु जातरूपसमप्रभम्।
रश्मिजालं महच्चन्द्रो मन्दं मन्दमवासृजत्॥ 7-185-51(53606)
उत्सारयन्तः प्रभया तमस्ते चन्द्ररश्मयः।
पर्यगच्छञ्छनैः सर्वा दिशः खं च क्षितिं तथा॥ 7-185-52(53607)
ततो मुहूर्ताद्भुवनं ज्योतिर्भूतमिवाभवत्।
अप्रख्यमप्रकाशं च जगामाशु तमस्तथा॥ 7-185-53(53608)
प्रतिप्रकाशिते लोके दिवाभूते निशाकरे।
विचेरुर्न विचेरुश्च राजन्नक्तञ्चरास्ततः॥ 7-185-54(53609)
बोध्यमानं तु तत्सैन्यं राजंश्चन्द्रस्य रश्मिभिः।
बुबुधे शतपत्राणां वनं सूर्यांशुभिर्यथा॥ 7-185-55(53610)
यथा चन्द्रोदयोद्धूतः क्षुभितः सागरोऽभवत्।
तथा चन्द्रोदयोद्धूतः क्षुभितश्च बलार्णवः॥ 7-185-56(53611)
ततः प्रववृते युद्धं पुनरेव विशाम्पते।
लोके लोकविनाशाय परं लोकमभीप्सताम्॥ ॥ 7-185-57(53612)

इति श्रीमन्महाभारते द्रोणपर्वणि द्रोणवधपर्वणि चतुर्दशरात्रियुद्धे पञ्चाशीत्यधिकशततमोऽध्यायः॥ 185 ॥

Mahabharata - Drona Parva - Chapter Footnotes

5-185-28 सङ्ग्राममिति झ.पाठः॥ 5-185-185 पञ्चाशीत्यधिकशततमोऽध्यायः॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.